Wednesday, May 5, 2021

कालिदासकृत अभिज्ञानशाकुन्तलम् (Kalidasa Krta AbhijnanaShakuntalam)

 

अभिज्ञानशाकुन्तलम्

अथ अभिज्ञानशाकुंतलम् । प्रथमोऽङ्कः । या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥१॥ (नान्द्यन्ते ) सूत्रधारः -- ( नेपथ्याभिमुखमवलोक्य ) आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् । ( प्रविश्य ) नटी - आर्यपुत्र इयमस्मि । सूत्रधारः -- आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुंतलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः । नटी -- सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते । सूत्रधारः -- आर्ये कथयामि ते भूतार्थम् । आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः॥२॥ नटी -- आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु । सूत्रधारः -- किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । सम्प्रति हि - सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः॥३॥ नटी -- तथा । ( इति गायति ) ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि । अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि॥४॥ सूत्रधारः -- आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः । नटी -- नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुंतलं नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति । सूत्रधारः -- आर्ये सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया तत् । कुतः । तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा॥५॥ ( इति निष्क्रान्तौ ) ( प्रस्तावना ) ( ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च ) सूतः -- ( राजानं मृगं चावलोक्य ) आयुष्मन् । कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके । मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम्॥६॥ राजाः -- सूत दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि ग्रीवाभङ्गभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैण्रर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्याम् प्रयाति॥७॥ ( सविस्मयम् ) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः । सूतः -- आयुष्मन् उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । सम्प्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति । राजाः -- तेन हि मुच्यन्तामभीषवः । सूतः -- यदाज्ञापयत्यायुष्मान् । ( रथवेगं निरूप्य ) आयुष्मन्पश्य पश्य । मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः । आत्मौद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः॥८॥ राजाः -- सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि । यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदर्धे विछिन्नं भवति कृतसंधानमिव तत् । प्रकृत्या यद्वक्त्रं तदपि समरेखं नयनयोर्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथज्जवात्॥९॥ सूत पश्यैनं व्यापद्यमानम् । ( इति शरसंधानं नाटयति ) ( नेपथ्ये ) भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । सूतः -- ( आकर्ण्यावलोक्य च ) आयुष्मनस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः । राजाः -- ( ससम्भ्रमम् ) तेन हि प्रगृह्यन्तां वाजिनः । सूतः -- तथा । ( इति रथं स्थापयति ) (ततः प्रविशत्यात्मनातृतीयो वैखानसः ) वैखानसः -- ( हस्तमुद्यम्य ) राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि मृगशरीरे पुष्पराशाविवाग्निः । क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते॥१०॥ तत्साधुकृतसंधानं प्रतिसंहर सायकम् । आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि॥११॥ राजाः -- एष प्रतिसम्हृतः । ( इति यथोक्तं करोति ) वैखानसः -- सदृशमेतत् पुरुवंशप्रदीपस्य भवतः । जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्रमेवङ्गुणोपेतं चक्रवर्तिनमाप्नुहि॥१२॥ इतरौ -- ( बाहू उद्यम्य ) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि । राजाः -- ( सप्रणामम् ) प्रतिगृहीतं ब्राह्मणवचनम् । वैखानसः -- राजन् समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च । रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य । ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति॥१३॥ राजाः -- अपि संनिहितोऽत्र कुलपतिः । वैखानसः -- इदानीमेव दुहितरं शकुंतलामतिथिसत्काराय नियुज्य दैवं अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः । राजाः -- भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति । वैखानसः -- साधयामस्तावत् । ( इति सशिष्यो निष्क्रान्तः ) राजाः -- सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे । सूतः -- यदाज्ञापयत्यायुष्मन् । ( इति भूयो रथवेगं निरूपयति ) राजाः -- ( समन्तादवलोक्य ) सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति । सूतः -- कथमिव । राजाः -- किं न पश्यति भवान् । इह हि नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः॥१४॥ <कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला <भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन । <एते चार्वागुपवनभुवि च्छिन्नदर्भान्कुरायां <नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति । सूतः -- सर्वमुपपन्नम् । राजाः -- ( स्तोकमन्तरं गत्वा ) तपोवननिवासिनामुपरोधो मा भूत् । एतावत्येव रथं स्थापय यावदवतरामि । सूतः -- धृताः प्रग्रहाः । अवतरत्वायुष्मान् । राजाः -- ( अवतीर्य ) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद्गृह्यताम् । ( इति सूतस्याभरणानि धनुश्चोपनीयार्पयति ) सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः । सूतः -- तथा । ( इति निष्क्रान्तः ) राजाः -- ( परिक्रम्यावलोक्य च ) इदमाश्रमद्वारम् । यावत्प्रविशामि । ( प्रविश्य । निमित्तं सूचयन् ) शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहस्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र॥१५॥ ( नेपथ्ये ) इत इतः सख्यौ । राजाः -- ( कर्णं दत्त्वा ) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि । ( परिक्रम्यावलोक्य च ) अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुइत एवाभिवर्तन्ते । ( निपुणं निरूप्य ) अहो मधुरमासां दर्शनम् । शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः॥१६॥ यावदिमां छायामाश्रित्य प्रतिपालयामि । ( इति विलोकयन् स्थितः ) ( ततः प्रविश्यति यथोक्तव्यापारा सह सखीभ्यां शकुंतल ) शकुंतला -- इत इतः सख्यौ । अनसूया -- हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि त्वमेतेषामालवालपूरणे नियुक्ता । शकुंतला -- न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु । ( इति वृक्षसेचनं रूपयति ) राजाः -- कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते । इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति॥ १७॥ भवतु । पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि । ( इति तथा करोति ) शकुंतला -- सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रिताऽस्मि । शिथिलय तावदेतत् । अनसूया -- तथा । ( इति शिथिलयति ) प्रियंवदा -- ( सहासम् ) अत्र पयोधरविस्तारयितृ आत्मनो यौवनं उपालभस्व । मां किं उपालभसे । राजाः -- काममननुरूपमस्य वपुषो वल्कलं न पुनरलंकारश्रियं न पुष्यति । कुतः । सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥१८॥ शकुंतला -- ( अग्रतोऽवलोक्य ) एष वातीरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः । यावदेनं सम्भावयामि । ( इति परिक्रामति ) प्रियंवदा -- हला शकुन्तले अत्रैव तावन्मुहूर्तं तिष्ठ यावत्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति । शकुंतला -- अतः खलु प्रियंवदासि त्वम् । राजाः -- प्रियमपि तथ्यमाह शकुंतलां प्रियंवदा । अस्याः खलु अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम्॥१९॥ अनसूया -- हला शकुन्तले इयं स्वयम्वरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । एनां विस्मृताऽसि । शकुंतला -- तदात्मानमपि विस्मरिष्यामि । ( लतामुपेत्यावलोक्य च ) हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः । ( इति पश्यन्ती तिष्ठति ) प्रियंवदा -- अनसूये जानासि किं शकुंतला वनज्योत्स्नामतिमात्रं पश्यतीति । अनसूया -- न खलु विभावयामि । कथय । प्रियंवदा -- यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामैवमहमप्यात्मनोनुरूपं वरं लभेयेति । शकुंतला -- एष नूनं तवात्मगतो मनोरथः । ( इति कलशमावर्जयति ) राजाः -- अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् । अथवा कृतं संदेहेन । असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः॥२०॥ तथापि तत्त्वत एनामुपलस्ये । शकुंतला -- ( ससम्भ्रमम् ) अम्भो । सलिलसेकसम्भ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोभिवर्तते । ( इति भ्रमरबाधां रूपयति ) राजाः -- ( सस्पृहम् ) चलपाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम् वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती॥२१॥ शकुंतला -- न एष धृष्टो विरमति । अन्यतो गमिष्यामि । कथमितोऽप्यागच्छति । हला परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् । उभे -- ( सस्मितम् ) के आवां परित्रातुम् । दुष्यंतमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम । राजाः -- अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् -। ( इत्यर्धोक्ते स्वगतम् ) राजभावस्त्वभिज्ञातो भवेत् । भवतु एवं तावदभिधास्ये । शकुंतला -- ( पदान्तरे स्थित्वा । सदृष्टिक्षेपम् ) कथमितोऽपि मामनुसरति । राजाः -- ( सत्वरमुपसृत्य ) आः कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु॥२२॥ ( सर्वा राजानं दृष्टा किंचिदिव सम्भ्रान्ताः ) अनसूया -- आर्य न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता । ( इति शकुंतलां दर्शयति ) राजाः -- ( शकुंतलाभिमुखो भूत्वा ) अपि तपो वर्धते । ( शकुंतला साध्वसादवचना तिष्ठति ) अनसूया -- इदानीमतिथिविशेषलाभेन । हला शकुन्तले गच्छोटजम् । फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति। राजाः -- भवतीनां सूनृतयैव गिराकृतमातिथ्यम् । प्रियंवदा -- तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः । राजाः -- नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः । अनसूया -- हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः । ( इति सर्वा उपविशन्ति ) शकुंतला -- ( आत्मगतम् ) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता । राजाः -- ( सर्वा विलोक्य ) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् । प्रियंवदा -- ( जनान्तिकम् ) अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन्प्रभाववानिव लक्ष्यते । अनसूया -- सखि ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् । ( प्रकाशम् ) आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किन्निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः । शकुंतला -- ( आत्मगतम् ) हृदय मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया मन्त्रयते । राजाः -- ( आत्मगतम् ) कथमिदानीं आत्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु । एवं तावदेनां वक्ष्ये । ( प्रकाशम् ) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोहमविघ्नक्रियौपलम्भाय धर्मारण्यमिदं आयातः । ( शकुंतला श‍ृङ्गारलज्जां रूपयति ) अनसूया -- ( उभयोराकारं विदित्वा । जनान्तिकम् ) हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् । शकुंतला -- ततः किं भवेत् । सख्यौ -- इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति । शकुंतला -- युवामपेतम् । किमपि हृदये कृत्वा मत्रयेथे । न युवयोर्वचनं श्रोष्यामि । राजाः -- वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः । सख्यौ -- आर्य अनुग्रह इवेयमभ्यर्थना । राजाः -- भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तदात्मजेति कथमेतत् । अनसूया -- श‍ृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः । राजाः -- अस्ति । श्रूयते । अनसूया -- तमावयोः प्रियसख्याः प्रभवमवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता । राजाः -- उज्झितशब्देन जनितं मे कौतूहलम् । आमूलाच्छ्ह्रोतुमिच्छामि । अनसूया -- श‍ृणोत्व् आर्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी । राजाः -- अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् । अनसूया -- ततो वसंतोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य - ( इत्यर्धोक्ते लज्जया विरमति ) राजाः -- परस्ताज्ज्ञायत एव । सर्वथाप्सरःसम्भवैषा । अनसूया -- अथ किम् । राजाः -- उपपद्यते । मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः । न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥२३॥ ( शकुंतलाऽधोमुखी तिष्ठति ) राजाः -- ( आत्मगतम् ) लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः । प्रियंवदा -- ( सस्मितं शकुंतलां विलोक्य नायकाभिमुखी भूत्वा ) पुनरपि वक्तुकाम इवार्यः । ( शकुंतला सखीमङ्गुल्या तर्जयति ) राजाः -- सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् । प्रियंवदा -- अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम । राजाः -- इति सखीं ते ज्ञातुमिच्छामि । वैखानसं किमनया व्रतमाप्रदानाद् - व्यापाररोधि मदनस्य निषेवितव्यम् । अत्यन्तमात्मसदृशेक्षणवल्लभाभिराहो निवत्स्यति समं हरिणाङ्गनाभि॥२४॥ प्रियंवदा -- आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः । राजाः -- ( आत्मगतम् ) न दुरवापेयं खलु प्रार्थना । भव हृदय साभिलाषं सम्प्रति संदेहनिर्णयो जातः । आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम्॥२५॥ शकुंतला -- ( सरोषमिव ) अनसूये गमिष्याम्यहम् । अनसूया -- किन्निमित्तम् । शकुंतला -- इमामसम्बद्धप्रलापिनीं प्रियंवदां आर्यायै गौतम्यै निवेदयिष्यामि । अनसूया -- सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वछन्दतो गमनम् । ( शकुंतला न किंचिदुक्त्वा प्रस्थितैव ) राजाः -- ( ग्रहीतुमिच्छन्निगृह्यात्मानम् । आत्मगतम् ) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः । स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः॥२६॥ प्रियंवदा -- ( शकुंतलां निरुध्य ) हला न ते युक्तं गन्तुम् । शकुंतला -- ( सभ्रूभङ्गम् ) किन्निमित्तम् । प्रियंवदा -- वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि । ( इति बलादेनां निवर्तयति ) राजाः -- भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा ह्यस्याः स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः॥२७॥ तदहमेनान्नृणां करोमि । ( इत्यङ्गुलीयं दातुमिच्छति ) ( उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः ) राजाः -- अलमस्मानन्यथा सम्भाव्य । राज्ञः परिग्रहोयमिति राजपुरुष मामवगच्छत । प्रियंवदा -- तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेनानृणेदानीमेषा । ( किञ्चिद्विहस्य ) हला शकुन्तले मोचितास्यनुकम्पिनार्येण । अथवा महाराजेन । गच्छेदानीम् । शकुंतला -- ( आत्मगतम् ) यद्यात्मनः प्रभविष्यामि । ( प्रकाशम् ) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा । राजाः -- ( शकुंतलां विलोक्य । आत्मगतम् ) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः । वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्णं ददात्यभिमुखं मयि भाषमाणे । कामं न तिष्ठति मदाननसम्मुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः॥२८॥ ( नेपथ्ये ) भो भोस्तपस्विनः सन्निहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः । तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु । पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु॥२९॥ अपि च । तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसंजातपाशः । मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः॥३०॥ ( सर्वाः कर्णं दत्त्वा किंचिदिव सम्भ्रान्ताः ) राजाः -- ( आत्मगतम् ) अहो धिक् पौरा अस्मदन्वेषिणस्तपोवनुपरुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् । सख्यौ -- आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि न उटजगमनाय । राजाः -- ( ससम्भ्रमम् ) गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे । ( सर्वे उत्तिष्ठन्ति ) सख्यौ -- आर्य असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् । राजाः -- मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि । शकुंतला -- अनसूये अभिनवकुशसूच्या परिक्षतं मे चरणं कुरबकशाखापरिलग्नं च वल्कलम् । तावत्परिपालयत मां यावदेतन्मोचयामि । ( शकुंतला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता ) राजाः -- मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुंतलाव्यापारादात्मानं निवर्तयितुम् । मम हि गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः । चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य॥३१॥ ( इति निष्क्रान्ताः सर्वे ) ( इति प्रथमोऽङ्कः । ) द्वितीयोऽङ्कः । ( ततः प्रविशति विषण्णो विदूषकः ) विदूषकः -- ( निःश्वस्य ) भो दिष्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि । अयम् मृगोऽयं वहारोऽयं शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपछायासु वनराजिष्वाहिण्डयते अटवीतोऽटवी । पत्रसङ्करकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते । अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंधे रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे दास्याःपुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि । इयतेदानीमपि पीडा न निष्क्रामति । ततो गण्डस्योपरि पिण्डकः संवृत्तः । ह्यः किलास्मास्ववहीनेषु तत्र भवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुंतला ममाधन्यतया दर्शिता । साम्प्रतं नगरगमनाय मनः कथमपि न करोति । अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः । यावत्तं कृताचारपरिक्रमं पश्यामि । ( इति परिक्रम्यावलोक्य च ) एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत इत एवागछति प्रियवयस्यः । भवतु । अन्गभन्गविकल इव भूत्वा स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय । ( इति दण्डकाष्ठमवलम्ब्य स्थितः ) ( ततः प्रविशति यथानिर्दिष्टपरिवारो राजा ) राजाः -- कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि । अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते॥१॥ ( स्मितं कृत्वा ) एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते । स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव । मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति॥२॥ विदूषकः -- ( तथास्थित एव ) भो वयस्य न मे हस्तपादं प्रसरति तद्वाङ्मात्रेण जापयिष्यामि । जयतु जयतु भवान् । राजाः -- कुतोऽयं गात्रोपघातः । विदुषकः -- कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि । राजाः -- न खल्वावगच्छामि । विदुषकः -- भो वयस्य यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः प्रभावेण ननु नदीवेगस्य । राजाः -- नदीवेगस्तत्र कारणम् । विदुषकः -- ममापि भवान् । राजाः -- कथमिव । विदुषकः -- एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसीद मे । एकाहमपि तावद्विश्रम्यताम् । राजाः -- ( स्वगतम् ) अयं चैवमाह । ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः । कुतः । न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु । सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः॥३॥ विदुषकः -- ( राज्ञो मुखं विलोक्य ) अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत् । राजाः -- ( सस्मितम् ) किमन्यत् । अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि । विदुषकः -- चिरं जीव । ( इति गन्तुमिछति ) राजाः -- वयस्य तिष्ठ । सावशेषं मे वचः । विदुषकः -- आज्ञापयतु भवान् । राजाः -- विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन भवितव्यम् । विदुषकः -- किं मोदकखादिकायाम् । तेन ह्ययं सुगृहीतः क्षणः । राजाः -- यत्र वक्ष्यामि । कः कोऽत्र भोः । ( प्रविश्य ) दौवारिकः -- ( प्रणम्य ) आज्ञापयतु भर्त्ता । राजाः -- रैवतक सेनापतिस्तावदाहूयताम् । दौवारिकः -- तथा । ( इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ) एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः । सेनापति -- ( राजानमवलोक्य ) दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः अनवरतधनुर्ज्यास्फालनक्रूरपूर्व रविकिरणसहिष्णु स्वेदलेशैरभिन्नम् । अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति॥४॥ ( उपेत्य ) जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते । राजाः -- मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन । सेनापति -- ( जनान्तिकम् ) सखे स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । ( प्रकाशम् ) प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम् । मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः॥५॥ विदुषकः -- अपेहि रे उत्साहहेतुक । अत्रभवान्प्रकृतिमापन्नः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णर्क्षिस्य कस्यापि मुखे पतिष्यसि । राजाः -- भद्र सेनापते आश्रमसंनिकृष्टे स्थिताः स्मः । अतस्ते वचो नाभिनन्दामि । अद्य तावत् । गाहन्तां महिषा निपानसलिलं श‍ृङ्गैर्मुहुस्ताडितम् छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथितलज्याबन्धमस्मद्धनुः॥६॥ सेनापति -- यत्प्रभविष्णवे रोचते । राजाः -- तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य । शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः । स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति॥७॥ सेनापति -- यदाज्ञापयति स्वामी । विदुषकः -- ध्वंसतां ते उत्साहवृत्तान्तः । ( निष्क्रान्तः सेनापतिः ) राजाः -- ( परिजनं विलोक्य ) अपनयन्तु भवत्यो मृगयावेशम् । रैवतक त्वमपि स्वं नियोगमशून्यं कुरु । परिजन -- यद्देव आज्ञापयति । ( इति निष्क्रान्तः ) विदुषकः -- कृतं भवता निर्मक्षिकम् । साम्प्रतमेतस्मिन्पादपछायाविरचितवितानसनाथे शिलातले निषीदतु भवान्यावदहमपि सुखासीनो भवामि । राजाः -- गच्छाग्रतः । विदुषकः -- एतु भवान् । ( इत्युभौ परिक्रम्यौपविष्टौ ) राजाः -- माधव्य अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न दृष्टम् । विदुषकः -- ननु भवानग्रतो मे वर्तते । राजाः -- सर्वः कान्तमात्मीयं पश्यति । अहं तु तां एवाश्रमललामभूतां शकुंतलामधिकृत्य ब्रवीमि । विदुषकः -- ( स्वगतम् ) भवतु । अस्यावसरं न दास्ये । ( प्रकाशम् ) भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते । राजाः -- सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते । सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् । अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम्॥८॥ विदुषकः -- ( विहस्य ) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिण्ड्यां ( तिन्तिण्यां ) अभिलाषो भवेत्तथा स्त्रीरत्नपरिभोगिणः भवत इयमभ्यर्थना । राजाः -- न तावदेनां पश्यासि येनैवमवादीः । विदुषकः -- तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति । राजाः -- वयस्य किं बहुना । चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥९॥ विदुषकः -- यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् । राजाः -- इदं च मे मनसि वर्तते । अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुष्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥१०॥ विदुषकः -- तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि तपस्विन इन्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति । राजा -- परवती खलु तत्रभवती । न च संनिहितोऽत्र गुरुजनः । विदुषकः -- अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः । राजाः -- निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु अभिमुखे मयि सम्हृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् । विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः॥११॥ विदुषकः -- न खलु दृष्टमात्रस्य तवाङ्कं समारोहति । राजाः -- मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो भावस्तत्रभवत्या । तथा हि । दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम्॥१२॥ विदुषकः -- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि । राजाः -- सखे तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः । विदुषकः -- कोऽपरोऽपदेशो युष्माकं राज्ञाम् । नीवारषष्ठभागमस्माकमुपहरन्त्विति । राजाः -- मूर्ख अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि विहायाभिनन्द्यते । पश्य । यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् । तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः॥१३॥ ( नेपथ्ये ) हन्त सिद्धार्थौ स्वः । राजाः -- ( कर्णं दत्त्वा ) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् । ( प्रविश्य ) दौवारिकः -- जयतु जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ । राजाः -- तेन ह्यविलम्बितं प्रवेशय तौ । दौवारिकः -- एष प्रवेशयामि । ( इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य ) ( उभौ राजानं विलोकयतः ) प्रथमः -- अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवा उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः । अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति । अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यःशब्दो मुनिरिति मुहुः केवलं राजपूर्वः॥१४॥ द्वितीयः -- गौतम अयं स बलभित्सखो दुष्यन्तः । प्रथमः -- अथ किम् । द्वितीयः -- तेन हि नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति । आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे॥१५॥ उभौ -- ( उपगम्य ) विजयस्व राजन् । राजाः -- ( आसनादुत्थाय ) अभिवादये भवन्तौ । उभौ -- स्वस्ति भवते । ( इति फलान्युपहरतः ) राजाः -- ( सप्रणामं परिगृह्यः ) आज्ञापयितुमिच्छामि । उभौ -- विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते । राजाः -- किमाज्ञापयन्ति । उभौ -- तत्रभवतः कण्वस्य महर्षेरसांनिध्याद्रक्षांसि न इष्टिविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति । राजाः -- अनुगृहीतोऽस्मि । विदुषकः -- ( अपवार्य ) एषेदानीमनुकूला तेऽभ्यर्थना । राजाः -- ( स्मितं कृत्वा ) रैवतक मद्वचनादुच्यतां सारथिः । सबाणासनं रथमुपस्थापयेति । दौवारिकः -- यद्देव आज्ञापयति । ( इति निष्क्रान्तः ) उभौ -- ( सहर्षम् ) अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि । आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः॥१६॥ राजाः -- ( सप्रणामम् ) गच्छतां पुरो भवन्तौ । अहमप्यनुपदमागत एव । उभौ -- विजयस्व ( इति निष्क्रान्तौ ) राजाः -- माधव्य अप्यस्ति शकुंतलादर्शने कुतूहलम् । विदुषकः -- प्रथमं सपरिवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः । राजाः -- मा भैषीः । ननु मत्समीपे वर्तिष्यसे । विदुषकः -- एष राक्षसाद्रक्षितोऽस्मि । ( प्रविश्य ) दौवारिकः -- सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञप्तिहरः करभक आगतः । राजाः -- ( सादरम् ) किमम्बाभिः प्रेषितः । दौवारिकः -- अथ किम् । राजाः -- ननु प्रवेश्यताम् । दौवारिकः -- तथा । ( इति निष्क्रम्य करभकेण सह प्रविश्य ) एष भर्ता । उपसर्प । करभकः -- जयतु जयतु भर्ता । देव्याज्ञापयति । आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र दीर्घायुषावश्यं सम्भावनीयेति । राजाः -- इतस्तपस्विकार्यम् । इतो गुरुजनाज्ञा । द्वयमप्यनतिक्रमणीयम् । किमत्र प्रतिविधेयम् । विदुषकः -- त्रिशङ्कुरिवान्तरा तिष्ठ । राजाः -- सत्यमाकुलीभूतोऽस्मि । कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः । पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा॥१७॥ ( विचिन्त्य ) सखे त्वमम्बया पुत्र इति प्रतिगृहीतः । अतो भवानितः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति । विदुषकः -- न खलु मां रक्षोभीरुकं गणयसि । राजाः -- ( सस्मितम् ) कथमेतद्भवति सम्भाव्यते । विदुषकः -- यथा राजानुजेन गन्तव्यं तथा गच्छामि । राजाः -- ननु तपोवनोपरोधः परिहरणीय इति सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि । विदुषकः -- ( सगर्वम् ) तेन हि युवराजोऽस्मीदानीं संवृत्तः । राजाः -- ( स्वगतम् ) चपलोऽयं बटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । भवतु । एनमेवं वक्ष्ये । ( विदूषकं हस्ते गृहीत्वा । प्रकाशम् ) वयस्य ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य । क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः । परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः॥१८॥ विदुषकः -- अथ किम् । ( इति निष्क्रान्ताः सर्वे ) ( इति द्वितीयोऽङ्कः । ) तृतीयोऽङ्कः । ( ततः प्रविशति कुशानादाय यजमानशिष्यः ) शिष्यः -- अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि । का कथा बाणसंधाने ज्याशब्देनैव दूरतः । हुंकारेणेव धनुषः स हि विघ्नानपोहति॥१॥ यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि । ( परिक्रम्यावलोक्य च । आकाशे ) प्रियंवदे कस्यिदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । ( श्रुतिमभिनीय ) किं ब्रवीषि । आतपलङ्घनाद्बलवदस्वस्था शकुंतला तस्याः शरीरनिर्वापणायेति । तर्हि यत्नादुपचर्यताम् । सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गैतमीहस्ते विसर्जयिष्यामि । ( इति निष्क्रान्तः ) विष्कम्भकः । ( ततः प्रविशति कामयमानावस्थो राजा ) राजाः -- ( सचिन्तं निःश्वस्य ) जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् । अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम्॥२॥ ( मदनबाधां निरूप्य ) भगवन्कुसुमायुध त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः । तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैंरग्निमिन्दुर्मयूखैस्त्वमपि कुसुमबाणान्वज्रसारीकरोषि॥३॥ अथवा । ( अद्यापि नूनं हरकोपवह्निनस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ । ( त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः ( कथमित्थमुष्णः॥ अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति॥४॥ ( सखेदं परिक्रम्य ) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं विनोदयामि । ( निःश्वस्य ) किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् । यावदेनामन्विष्यामि । ( सूर्यमवलोक्य ) इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुंतला गमयति । तत्रैव तावद्गच्छामि । ( परिक्रम्य संस्पर्शं रूपयित्वा ) अहो प्रवातसुभगोऽयमुद्देशः । शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः॥५॥ ( परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुंतलया भवितव्यम् । तथा हि । अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा॥६॥ यावद्विटपान्तरेणावलोकयामि । ( परिक्रम्य तथा कृत्वा । सहर्षम् ) अये लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयानासखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां विश्रम्भकथितानि । ( इति विलोकयन्स्थितः ) ( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुंतला ) सख्यौ -- ( उपवीज्य । सस्नेहम् ) हला शकुन्तले अपि सुखयति ते नलिनीपत्रवातः । शकुंतला -- किं वीजयतो मां सख्यौ । ( सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः ) राजाः -- बलवदस्वस्थशरीरा शकुंतला दृश्यते । ( सवितर्कम् ) तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते । ( साभिलाषं निर्वर्ण्य ) अथ वा कृतं संदेहेन । स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् । समस्तापः कामं मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु॥७॥ प्रियंवदा -- ( जनान्तिकम् ) अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्यपर्युत्सुकेव शकुंतला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् । अनसूया -- सखि ममापीदृश्याशङ्का हृदयस्य । भवतु । प्रक्ष्यामि तावदेनाम् । ( प्रकाशम् ) सखि प्रष्टव्यासि किमपि । बलवान्खलु ते संतापः । शकुंतला -- ( पूर्वार्धेन शयनादुत्थाय ) हला किं वक्तुकामासि । अनसूया -- हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि । कथय किंनिमित्तं ते संतापः । विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य । राजाः -- अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वाभिप्रायेण मे दर्शनम् । शकुंतला -- ( आत्मगतम् ) बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् । प्रियंवदा -- सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति । राजाः -- अवितथमाह प्रियंवदा । तथा हि क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यःक्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥८॥ शकुंतला -- सखि कस्य वान्यस्य कथयिष्यामि । किंत्वायासयित्रीदानीं वां भविष्यामि । उभे -- अत एव खलु निर्बन्धः । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति । राजाः -- पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् । दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे श्रवणकातरतां गतोऽस्मि॥९॥ शकुंतला -- सखि यतःप्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः । ( इत्यर्धोक्ते लज्जां नाटयति ) उभे -- कथयतु प्रियसखी । शकुंतला -- तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता । राजाः -- ( सहर्षम् ) श्रुतं श्रोतव्यम् । स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः । दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य॥१०॥ शकुंतला -- तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चत मे तिलोदकम् । राजाः -- संशयच्छेदि वचनम् । प्रियंवदा -- ( जनान्तिकम् ) अनसूये दूरगतमन्मथाऽक्षमेयं कालहरणस्य । यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् । अनसूया -- तथा यथा भणसि । प्रियंवदा -- ( प्रकाशम् ) सखि दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते । राजाः -- किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते । अनसूया -- कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं सम्पादयावः । प्रियंवदा -- निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् । अनसूया -- कथमिव । प्रियंवदा -- ननु स राजर्षिरस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते । राजाः -- सत्यमित्थम्भूत एवास्मि । तथा हि इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः । अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते॥११॥ प्रियंवदा -- ( विचिन्त्य ) हला मदनलेखोऽस्य क्रियताम् तं सुमनोगोपितं कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि । अनसूया -- रोचते मे सुकुमारः प्रयोगः किं वा शकुंतला भणति । शकुंतला -- किं नियोगो वां विकल्प्यते । प्रियंवदा -- तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत्किमपि ललितपदबन्धनम् । शकुंतला -- हला चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् । राजाः -- ( सहर्षम् ) अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत्॥१२॥ सख्यौ -- अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति । शकुंतला -- ( सस्मितम् ) नियोजितेदानीमस्मि । ( इत्युपविष्टा चिन्तयति ) राजाः -- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । यतः उन्नमितै कभ्रूलतमाननमस्याः पदानि रचयन्त्याः । कण्टकितेन प्रथयति मय्यनुरागं कपोलेन॥१३॥ शकुंतला -- हला चिन्तितं मया गीतवस्तु । असंनिहितानि पुनर्लेखनसाधनानि । प्रियंवदा -- एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु । शकुंतला -- ( यथोक्तं रूपयित्वा ) हला श‍ृणुतमिदानीं सङ्गतार्थं न वेति । उभे -- अवहिते स्वः । शकुंतला -- ( वाचयति ) तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि । निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङ्गानि॥१४॥ राजाः -- ( सहसोपसृत्य ) तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥१५॥ सख्यौ -- ( विलोक्य सहर्षमुत्थाय ) स्वागतमविलम्बिनो मनोरथस्य । ( शकुंतलाऽभ्युत्थातुमिच्छति ) राजाः -- अलमलमायासेन । संदष्टकुसुमशयनान्याशुक्लान्तबिसभङ्गसुरभीणि । गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति॥१६॥ अनसूया -- इतः शिलातलैकदेशमलंकरोतु वयस्यः । ( राजोपविशति । शकुंतला सलज्जा तिष्ठति ) प्रियंवदा -- द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर्मां पुनरुक्तवादिनीं करोति । राजाः -- भद्रे नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति । प्रियंवदा -- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष वो धर्मः । राजाः -- नास्मात्परम् । प्रियंवदा -- तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितमस्या अवलम्बितुम् । राजाः -- भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि । शकुंतला -- ( प्रियंवदामवलोक्यं ) हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन । राजाः -- सुन्दरि इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः॥१७॥ अनसूया -- वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय । राजाः -- भद्रे किं बहुना परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । समुद्ररसना चोर्वी सखी च युवयोरियम्॥१८॥ उभे -- निर्वृते स्वः । प्रियंवदा -- ( सदृष्टिक्षेपम् ) अनसूये एष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि । संयोजयाव एनम् । ( इत्युभे प्रस्थिते ) शकुंतला -- हला अशरणास्मि । अन्यतरा युवयोरागच्छतु । उभे -- पृथिव्या यः शरणं स तव समीपे वर्तते । ( इति निष्क्रान्ते ) शकुंतला -- कथं गते एव । राजाः -- अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते । किं शीतलैः क्लमविनोदिभिरार्द्रवातान्सञ्चारयामि नलिनीदलतालवृन्तैः । अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥१९॥ शकुंतला -- न माननीयेष्वात्मानमपराधयिष्ये । ( इत्युत्थाय गन्तुमिच्छति ) राजाः -- सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था । उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः॥२०॥ ( इति बलादेनां निवर्तयति ) शकुंतला -- पौरव रक्ष विनयम् । मदनसंतप्तापि न खल्वात्मनः प्रभवामि । राजाः -- भीरु अलं गुरूजन्भयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य । गान्धर्वेण विवाहेन बहव्यो राजर्षिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः॥२१॥ शकुंतला -- मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये । राजाः -- भवतु । मोक्ष्यामि । शकुंतला -- कदा । राजाः -- अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन । अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य॥२२॥ ( इति मुखमस्याः समुन्नमयितुमिच्छति । शकुंतला परिहरति नाट्येन ) ( नेपथ्ये ) चक्रवाकवधुके आमन्त्रयस्व सहचरम् । उपस्थिता रजनी । शकुंतला -- ( ससम्भ्रमम् ) पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । तद्विटपान्तरितो भव । राजाः -- तथा । ( इत्यात्मानमावृत्य तिष्ठति ) ( ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च ) सख्यौ -- इत इत आर्या गौतमी । गौतमी -- ( शकुंतलामुपेत्य ) जाते अपि लघुसंतापानि तेऽङ्गानि । शकुंतला -- आर्ये अस्ति मे विशेषः । गौतमी -- अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । ( शिरसि शकुतलामभ्युक्ष्य ) वत्से परिणतो दिवसः । एहि उटजमेव गच्छामः । ( इति प्रस्थिताः ) शकुंतला -- ( आत्मगतम् ) हृदय प्र्थममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते साम्प्रतं संतापः । ( पदान्तरे स्थित्वा । प्रकाशम् ) लतावलय संतापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय । ( इति दुःखेन निष्क्रान्ता शकुंतला सहेतराभिः ) राजा ( पूर्वस्थानमुपेत्य । सनिःश्वासम् ) अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः । मया हि मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु॥२३॥ क्व नु खलु सम्प्रति गच्छामि । अथ वा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । ( सर्वतोऽवलोक्य ) तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः । हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि॥२४॥ ( आकाशे ) राजन् सायंतने सवनकर्मणि सम्प्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस्ताः । छायाश्चरन्ति बहुधा भयमादधानाः संध्यापयोदकपिशाः पिशिताशनानाम्॥२५॥ राजाः -- अयमहमागच्छामि । ( इति निष्क्रान्तः ) ( इति तृतीयोऽङ्कः । ) चतुर्थोऽङ्कः । ( ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ । ) अनसूया -- हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुंतलाऽनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्येतावच्चिन्तनीयम् । प्रियंवदा -- कथमिव । अनसूया -- अद्य स राजर्षिरिष्टिं परिसमाप्यर्षिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति । प्रियंवदा -- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीमिमं ऋत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । अनसूया -- यथाहं पश्यामि तथा तस्यानुमतं भवेत् । प्रियंवदा -- कथमिव । अनसूया -- गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः संकल्पः । तं यदि दैवमेव सम्पादयति नन्वप्रयासेन कृतार्थो गुरुजनः । प्रियंवदा -- ( पुष्पभाजनं विलोक्य ) सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि । अनसूया -- ननु सख्याः शकुंतलायाः सौभाग्यदेवतार्चनीया । प्रियंवदा -- युज्यते । ( इति तदेव कर्माभिनयतः ) ( नेपथ्ये ) अयमहं भोः । अनसूया -- ( कर्णं दत्त्वा ) सखि अतिथीनामिव निवेदितम् । प्रियंवदा -- ननूटजसन्निहिता शकुंतला । अनसुया -- अद्य पुनर्हृदयेनासन्निहिता । अलमेतावद्भिः कुसुमैः । ( इति प्रस्थिते ) ( नेपथ्ये ) आः अतिथिपरिभाविनि विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां न स बोधितोऽपि सन्कथां प्रमत्तः प्रथमं कृतामिव ॥१॥ प्रियंवदा -- हा धिक् हा धिक् । अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुंतला । ( पुरोऽवलोक्य ) न खलु यस्मिन्कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः । अनसूया -- कोऽन्यो हुतवहाद्दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि । प्रियंवदा -- तथा ( इति निष्क्रान्ता ) अनसूया -- ( पदान्तरे स्खलितं निरूप्य ) अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् । ( इति पुष्पोच्चयं रूपयति ) ( प्रविश्य ) प्रियंवदा -- सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किमपि पुनः सानुक्रोशः कृतः । अनसूया -- ( सस्मितम् ) तस्मिन्बहवेतदपि । कथय । प्रियंवदा -- यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्य इति । अनसूया -- ततस्ततः । प्रियंवदा -- ततो न मे वचनमन्यथाभवितुमर्हति किं त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः । अनसूया -- शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा सम्प्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुंतला भविष्यति । प्रियंवदा -- सखि एहि । देवकार्यं तावदस्या निर्वर्तयावः । ( इति परिक्रामतः ) प्रियंवदा -- ( विलोक्य ) अनसूये पश्य तावत् । वामहस्तोपहितवदनाऽऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् । अनसूया -- प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी । प्रियंवदा -- को नामोष्णोदकेन नवमालिकां सिञ्चति । ( इति निष्क्रान्ते ) विष्कम्भकः । ( ततः प्रविशति सुप्तोत्थितः शिष्यः ) शिष्यः -- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । ( परिक्रम्यावलोक्य च ) हन्त प्रभातम् । तथा हि । यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतारुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु॥ २॥ अपि च । अन्तर्हिते शशिनि सैव कुमुद्वती मे वृष्टिं न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि॥३॥ ( प्रविश्यापटीक्षेपेण ) अनसूया -- यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन राज्ञा हकुंतलायामनार्यमाचरितम् । शिष्यः -- यावदुपस्थितां होमवेलां गुरवे निवेदयामि । ( इति निष्क्रान्तः ) अनसूया -- प्रतिबुद्धापि किं करिष्यामि । न म उचितेष्वपि निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता । अथ वा दुर्वासःशाप एष विकारयति । अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति । तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुंतलां निवेदयितुम् । इत्थङ्गतेऽस्माभिः किं करणीयम् । ( प्रविश्य ) प्रियंवदा -- ( सहर्षम् ) सखि त्वरस्व त्वरस्व शकुंतलायाः प्रस्थानकौतुकं निवर्तयितुम् । अनसूया -- सखि कथमेतत् । प्रियंवदा -- श‍ृणु । इदानीं सुखशयितपृच्छिका शकुंतलासकाशं गतास्मि । अनसूया -- ततस्ततः । प्रियंवदा -- तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता विद्येवशोचनीयासि संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति । अनसूया -- अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः । प्रियंवदा -- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या । अनसूया -- ( सविस्मयम् ) कथमिव । प्रियंवदा -- ( संस्कृतमाश्रित्य ) दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः । अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव॥४॥ अनसूया -- ( प्रियंवदामाश्लिष्य ) सखि प्रियं मे । किं त्वद्यैव शकुंतला नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि । प्रियंवदा -- सखि आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु । अनसूया -- तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । तदिमां हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि । प्रियंवदा -- तथा क्रियताम् । ( अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति ) ( नेपथ्ये ) गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुंतलानयनाय । प्रियंवदा -- ( कर्णं दत्त्वा ) अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषयः शब्दाय्यन्ते । ( प्रविश्य समालम्भनहस्ता ) अनसूया -- सखि एहि । गच्छावः । ( इति परिक्रामतः ) प्रियंवदा -- ( विलोक्य ) एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुंतला तिष्ठति । उपसर्पाव एनाम् । ( इत्युपसर्पतः ) ( ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुंतला ) तापसीनामन्यतमा -- ( शकुंतलां प्रति ) जाते भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व । द्वितीया -- वत्से वीरप्रसविनी भव । तृतीया -- वत्से भर्तुर्बहुमता भव । ( इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः ) सख्यौ -- ( उपसृत्य ) सखि सुखमज्जनं ते भवतु । शकुंतला -- स्वागतं मे सख्योः । इतो निषीदतम् । उभे ( मङ्गलपात्राण्यादाय । उपविश्य ) हला सज्जा भव । यावत्ते मङ्गलसमालम्भनं विरचयावः । शकुंतला -- इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे सखीमण्डनं भविष्यति । ( इति बाष्पं विसृजति ) उभे -- सखि उचितं न ते मङ्गलकाले रोदितुम् । (इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः) प्रियंवदा -- आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते । ( प्रविश्योपायनहस्तावृषिकुमारकौ ) उभौ -- इदमलंकरणम् । अलंक्रियतामत्रभवती । ( सर्वा विलोक्य विस्मिताः ) गौतमी -- वत्स नारद कुत एतत् । प्रथमः -- तातकाश्यपप्रभावात् । गौतमी -- किं मानसी सिद्धिः । द्वितीयः -- न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः शकुंतलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् । अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै- र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः॥५॥ प्रियंवदा -- ( शकुंतलां विलोक्य ) हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः । ( शकुंतला व्रीडां रूपयति ) प्रथम -- गौतम एह्येहि । अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः । द्वितीयः -- तथा । ( इति निष्क्रान्तौ ) सख्यौ -- अये अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः । शकुंतला -- जाने वां नैपुणम् । ( उभे नाट्येनालङ्कुरूतः ) ( ततः प्रविशति स्नानोत्तीर्णः काश्यपः ) । काश्यपः -- यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः॥६॥ ( इति परिक्रामति ) सख्यौ -- हला शकुन्तले अवसितमण्डनासि । परिधत्स्व साम्प्रतं क्षौमयुगलम् । ( शकुन्तलोत्थाय परिधत्ते ) गौतमी -- जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व । शकुंतला -- ( सव्रीडम् ) तात वन्दे । काश्यपः -- वत्से । ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव । सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि॥७॥ गौतमी -- भगवान् वरः खल्वेषः । नाशीः । काश्यपः -- वत्से इतः सद्यो हुतानग्नीन्प्रदक्षिणीकुरुष्व । ( सर्वे परिक्रामन्ति ) काश्यपः -- ( ऋक्छन्दसाऽऽशास्ते ) अमी वेदिं परितः कॢप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । अपघ्नतो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयंतु॥८॥ प्रतिष्ठस्वेदानीम् । ( सदृष्टिक्षेपम् ) क्व ते शार्ङ्गरवमिश्राः । ( प्रविश्य ) शिष्य -- भगवन् इमे स्मः । काश्यप -- भगिन्यास्ते मार्गमादेशय । शार्ङ्गरव -- इत इतो भवती । ( सर्वे परिक्रामन्ति ) काश्यप -- भो भोः संनिहितास्तपोवनतरवः । पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुंतला पतिगृहं सर्वैरनुज्ञायताम्॥९॥ ( कोकिलरवं सूचयित्वा ) अनुमतगमना शकुंतला तरुभिरियं वनवासबन्धुभिः । परिभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम्॥१०॥ ( आकाशे ) रम्यान्तरः कमलिनीहरितैः सरोभिश्छायाद्रुमैर्नियमितार्कमयूखतापः । भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः॥११॥ ( सर्वे सविस्मयमाकर्णयन्ति ) गौतमी -- जाते ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः । शकुंतला -- ( सप्रणामं परिक्रम्य । जनान्तिकम् ) हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते । प्रियंवदा -- न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते । उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः॥१२॥ शकुंतला -- ( स्मृत्वा ) तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये । काश्यपः -- अवैमि ते तस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन । शकुंतला -- ( उपेत्य लतामालिङ्ग्य ) वनज्योत्स्ने चूतसंगतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः । अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि । काश्यपः -- संकल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम् । चूतेन संश्रितवती नवमालिकेयमस्यामहं त्वयि च सम्प्रति वीतचिन्तः॥१३॥ इतः पन्थानं प्रतिपद्यस्व । शकुंतला -- ( सख्यौ प्रति ) हला एषा द्वयोर्युवयोर्हस्ते निक्षेपः । सख्यौ -- अयं जनः कस्य हस्ते समर्पितः । ( इति बाष्पं विहरतः ) काश्यपः -- अनसूये अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुंतला । ( सर्वे परिक्रमन्ति ) शकुंतला -- तात एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदाऽनघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ । काश्यपः -- नेदं विस्मरिष्यामः । शकुंतला -- ( गतिभङ्गं रूपयित्वा ) को नु खल्वेष निवसने मे सज्जते । ( इति परावर्तते ) काश्यपः -- वत्से, यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसुचिविद्धे । श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते॥१४॥ शकुंतला -- वत्स किं सहवासपरित्यागिनीं मामनुसरसि । अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् । ( इति रुदती प्रस्थिता ) काश्यपः -- उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विरतानुबन्धम् । अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति॥१५॥ शार्ङ्गरवः -- भवगान् । ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुमर्हति । काश्यपः -- तेन हीमां क्षीरवृक्षछायामाश्रयामः । ( सर्वे परिक्रम्य स्थिताः ) काश्यपः -- ( आत्मगतम् ) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् । ( इति चिन्तयति ) शकुंतला -- ( जनान्तिकम् ) हला पश्य । नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्यरटति दुष्करमहं करोमीति । अनसूया -- सखि मैवं मन्त्रयस्व । एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् । गुर्वपि विरहदुःखमाशाबन्धः साहयति॥१६॥ काश्यपः -- शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुंतलां पुरस्कृत्य वक्तव्यः । शार्ङ्गरवः -- आज्ञापयतु भगवान् । काश्यपः -- अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस्त्वय्यस्याः कथमप्य्बान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः॥१७॥ शार्ङ्गरवः -- गृहीतः संदेशः । काश्यपः -- वत्से त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् । शार्ङ्गरवः -- न खलु धीमतां कश्चिदविषयो नाम । काश्यपः -- सा त्वमितः पतिकुलं प्राप्य -- शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥१८॥ अनसुया -- कथं वा गौतमी मन्यते । गौतमी -- एतावान्वधूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय । काश्यपः -- वत्से परिष्वजस्व मां सखीजनं च । शकुंतला -- तात इत एव किं प्रियंवदानुसूये सख्यौ निवर्तिष्येते । काश्यप -- वत्से इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति । शकुंतला -- ( पितरमाश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि । काश्यपः -- वत्से किमेवं कातरासि । अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला । तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि॥१९॥ ( शकुंतला पितुः पादयोः पतति ) काश्यपः -- यदिच्छामि ते तदस्तु । शकुंतला -- ( सख्यावुपेत्य ) हला द्वे अपि मां सममेव परिष्वजेथाम् । सख्यौ -- ( तथा कृत्वा ) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय । शकुंतला -- अनेन संदेहेन वामाकम्पितास्मि । सख्यौ -- मा भैषीः । अतिस्नेहः पापशङ्की । शार्ङ्गरवः -- युगान्तरमारूढः सविता । त्वरतामत्रभवती । शकुंतला -- ( आश्रमाभिमुखी स्थित्वा ) तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये । काश्यप -- श्रूयताम् । भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्॥२०॥ गौतमी -- जाते परिहीयते गमनवेला । निवर्तय पितरम् । अथ वा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् । काश्यपः -- वत्से उपरुध्यते तपोऽनुष्ठानम् । शकुंतला -- ( भूयः पितरमाश्लिष्य ) तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठस्व । काश्यपः -- ( सनिःश्वासम् ) शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् । उटजद्वारविरूढं नीवारबलिं विलोकयतः॥२१॥ गच्छ । शिवास्ते पन्थानः सन्तु । ( निष्क्रान्ता शकुंतला सहयायिनश्च ) सख्यौ -- ( शकुंतलां विलोक्य ) हा धिक् हा धिक् । अन्तर्हिता शकुंतला वनराज्या । काश्यपः -- ( सनिःश्वासम् ) अनसूये गतवती वां सहचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् । उभे -- तात शकुंतलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः । काश्यपः -- स्नेहवृत्तिरेवन्दर्शिनी । ( सविमर्शं परिक्रम्य ) हन्त भोः शकुंतलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः । अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः । जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा॥२२॥ ( इति निष्क्रान्ताः सर्वे ) ( इति चतुर्थोऽङ्कः । ) पञ्चमोऽङ्कः । ( ततः प्रविशत्यासनस्थो राजा विदूषकश्च ) विदुषकः -- ( कर्णं दत्त्वा ) भो वयस्य संगीतशालान्तरेऽवधानं देहि । कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने त्रयभवती हंसपदिका वर्णपरिचयं करोतीति । राजाः -- तूष्णीं भव । यावदाकर्णयामि । ( आकाशे गीयते ) अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् । कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम्॥१॥ राजाः -- अहो रागपरिवाहिणी गीतिः । विदुषकः -- किं तावद्गीत्या अवगतोऽक्षरार्थः । राजाः -- ( स्मितं कृत्वा ) सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतोऽस्मि । सखे माधव्य मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धाः स्म इति । विदुषकः -- यद्भवानाज्ञापयति । ( उत्थाय ) भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः । राजाः -- गच्छ । नागरिकवृत्त्या सञ्ज्ञापयैनाम् । विदुषकः -- का गतिः । ( इति निष्क्रान्ताः ) राजाः -- ( आत्मगतम् ) किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजनविरहादृतेपि बलवदुत्कण्ठितोस्मि । अथवा । रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि॥२॥ ( इति पर्याकुलस्तिष्ठति ) ( ततः प्रविशति कञ्चुकी ) कञ्चुकी -- अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि । आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः । काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनार्था॥३॥ भोः कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् । अथ वाऽविश्रमोऽयं लोकतन्त्राधिकारः । कुतः । भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति । शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः॥ ४॥ यावन्नियोगमनुतिष्ठामि । ( परिक्रम्यावलोक्य च ) एष देवः प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवते श्रान्तमना विविक्तम् । यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः॥५॥ ( उपगम्य ) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः सम्प्राप्ताः । श्रुत्वा देवः प्रमाणम् । राजाः -- ( सादरम् ) किं काश्यपसंदेशहारिणः । कञ्चुकी -- अथ किम् । राजाः -- तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः । अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि । क`न्चुकी -- यदाज्ञापयति देवः । ( इति निष्क्रान्तः ) राजाः -- ( उत्थाय ) वेत्रवति अग्निशरणमार्गमादेशय । प्रतिहारी -- इत इतो देवः । राजाः -- ( परिक्रामति । अधिकारखेदं निरूप्य ) सर्वः प्रार्थितमर्थमधिगम्य सुखी सम्पद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव । औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव । नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥६॥ ( नेपथ्ये ) वैतालिकौ -- विजयतां देवः । प्रथमः -- स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव । अनुभवति हि मूर्ध्ना पदपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम्॥७॥ द्वितीयः -- नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय । अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम्॥८॥ राजाः -- एते क्लान्तमनसः पुनर्नवीकृताः स्मः । ( इति परिक्रामति ) प्रतिहारी -- एष अभिनवसम्मार्जनसश्रीकः सन्निहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः । राजाः -- ( आरुह्य परिजनांसावलम्बी तिष्ठति ) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः । किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् । आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधामित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः॥९॥ प्रतिहारी -- सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि । ( ततः प्रविशन्ति गौतमीसहिताः शकुंतलां पुरस्कृत्य मुनयः । पुरश्चैषां कञ्चुकी पुरोहितश्च ) कञ्चुकी -- इत इतो भवन्तः । शार्ङ्गरवः -- शारद्वत । महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते । तथापीदं शश्वत्परिचितविविक्तेन मनसा जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव॥१०॥ शारद्वतः -- स्थाने भवान्पुरप्रवेशादित्थम्भूतः संवृत्तः । अहमपि अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि॥११॥ शकुंतला -- ( निमित्तं सूचयित्वा ) अहो किं मे वामेतरन्नयनं विस्फुरति । गौतमी -- जाते प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु । ( इति परिक्रामति ) पुरोहितः -- ( राजानं निर्दिश्य ) भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् । शार्ङ्गरवः -- भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥१२॥ प्रतीहारी -- देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः । राजाः -- ( शकुंतलां दृष्ट्वा ) अथात्रभवती का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥१३॥ प्रतीहारी -- देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते । राजाः -- भवतु । अनिर्वर्णनीयं परकलत्रम् । शकुंतला -- ( हस्तमुरसि कृत्वा । आत्मगतम् ) हृदय किमेवं वेपसे । आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव । पुरोहितः -- ( पुरो गत्वा ) एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसंदेशः । तं देवः श्रोतुमर्हति । राजाः -- अवहितोऽस्मि । ऋषयः -- ( हस्तानुद्यम्य ) विजयस्व राजन् । राजाः -- सर्वानभिवादये । ऋषयः -- इष्टेन युज्यस्व । राजाः -- अपि निर्विघ्नतपसो मुनयः । ऋषयः -- कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि । तमस्तपति धर्मांशौ कथमाविर्भविष्यति॥१४॥ राजाः -- अर्थवान्खलु मे राजशब्दः । अथ भगवान्लोकानुग्रहाय कुशली काश्यपः । शार्ङ्गरवः -- स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह । राजाः -- किमाज्ञापयति भगवान् । शार्ङ्गरवः -- यन्मिथःसमयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुंतला मूर्तिमती च सत्क्रिया । समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः॥१५॥ तदिदानीमापन्नसत्त्वेयं प्रतिगृह्यतां सहधर्माचरणायेति । गौतमी -- आर्य किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति । नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः । एकैकस्मिन्नेव चरिते भणामि किमेकैकम्॥१६॥ शकुंतला -- ( आत्मगतम् ) किं नु खल्वार्यपुत्रो भणति । राजाः -- किमिदमुपन्यस्तम् । शकुंतला -- ( आत्मगतम् ) पावकः खलु वचनोपन्यासः । शार्ङ्गरवः -- कथमिदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः । सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते । अतः समीपे परिणेतुरिष्यते । प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः॥१७॥ राजाः -- किमत्रभवती मया परिणीतपूर्वा । शकुंतला -- ( सविषादम् आत्मगतम् ) हृदय साम्प्रतं ते आशङ्का । शार्ङ्गरवः -- किं कृतकार्यद्वेषो धर्मं प्रति विमुखता । कृतावज्ञा । राजाः -- कुतोऽयमसत्कल्पनाप्रश्नः । शार्ङ्गरवः -- मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु॥१८॥ राजाः -- विशेषेणधिक्षिप्तोऽस्मि । गौतमी -- जाते मुहूर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति । ( इति यथोक्तं करोति ) राजाः -- ( शकुंतलां निर्वर्ण्य । आत्मगतम् ) इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् । भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परोभोक्तुं नापि शक्नोमि हातुम्॥१९॥ ( इति विचारयन्स्थितः ) प्रतीहारी -- ( स्वगतम् ) अहो धर्मापेक्षिता भर्तुः । इदृशं नाम सुखोपनतं रूपं दृष्टा कोऽन्यो विचारयति । शार्ङ्गरवः -- भो राजन् किमिति जोषमास्यते । राजाः -- भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये । शकुंतला -- ( अपवार्य ) आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्याशा । शार्ङ्गरवः-- मा तावत् । कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः । मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन॥। २०॥ शारद्वतः -- शार्ङ्गरव विरम त्वमिदानीम् । शकुन्तले वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् । शकुंतला -- ( अपवार्य ) इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन । आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् । ( प्रकाशम् ) आर्यपुत्र - ( इत्यर्धोक्ते ) संशयित इदानीं परिणये नैष समुदाचारः । पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य साम्प्रतमीदृशैरक्षरैः प्रत्याख्यातुम् । राजाः -- ( कर्णौ विधाय ) शान्तं पापम् । व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् । कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च॥२१॥ शकुंतला -- भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि । राजाः -- उदारः कल्पः । शकुंतला -- ( मुद्रास्थानं परामृश्य ) हा धिक् हा धिक् । अङ्गुलीयकशून्या मेऽङ्गुलिः । ( इति सविषादं गौतमीमवेक्षते ) गौतमी -- नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् । राजाः -- ( सस्मितम् ) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते । शकुंतला -- अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि । राजाः -- श्रोतव्यमिदानीं संवृत्तम् । शकुंतला -- नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते सन्निहितमासीत् । राजाः -- श‍ृणुमस्तावत् । शकुंतला -- तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाध्दस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः सगंधेषु विश्वसिति । द्वावप्यत्रारण्यकाविति । राजाः -- एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः । गौतमी -- महाभाग नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य । राजाः -- तापसवृद्धे । स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनास्त्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति॥२२॥ शकुंतला -- ( सरोषम् ) अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते । राजाः -- ( आत्मगतम् ) संदिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने । भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य॥२३॥ ( प्रकाशम् ) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते । शकुंतला -- सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य हस्ताभ्यासमुपगता । शार्ङ्गरवः -- इत्थमात्मकृतं चापलं दहति । अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः । अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम्॥२४॥ राजाः -- अयि भोः किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः क्षिणुथ । शार्ङ्गरवः --( सासूयम् ) श्रुतं भवद्भिरधरोत्तरम् । आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य । परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः॥२५॥ राजाः -- भोः सत्यवादिन् अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसंधाय लभ्यते । शार्ङ्गरवः -- विनिपातः । राजाः -- विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् । शारद्वतः-- शार्ङ्गरव किमुत्तरेण । अनुष्ठितो गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । ( राजानं प्रति ) तदेषा भवतः कान्ता त्यज वैनां गृहाण वा । उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी॥२६॥ गौतमि गच्छाग्रतः । ( इति प्रस्थिताः ) शकुंतला -- कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां परित्यजथ । ( इत्यनुप्रतिष्ठते ) गौतमी -- ( स्थित्वा ) वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुंतला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु । शार्ङ्गरवः -- ( सरोषं निवृत्य ) किं पुरोभागे स्वातन्त्र्यमवलम्बसे । ( शकुंतला भीता वेपते ) शार्ङ्गरवः -- शकुंतले । यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया । अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम्॥२७॥ तिष्ठ । साधयामो वयम् । राजाः -- भोस्तपस्विन् किमत्रभवतीं विप्रलभसे । कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव । वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः॥२८॥ शार्ङ्गरवः -- यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः । राजाः -- भवन्तमेवात्र गुरुलाघवं पृच्छामि । मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये । दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः॥२९॥ पुरोहितः -- ( विचार्य ) यदि तावदेवं क्रियताम् । राजाः -- अनुशास्तु मां भवान् । पुरोहितः -- अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् । त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव । राजाः -- यथा गुरुभ्यो रोचते । पुरोहितः -- वत्से अनुगच्छ माम् । शकुंतला -- भगवति वसुधे देहि मे विवरम् । ( इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च ) ( राजा शापव्यवहितस्मृतिः शकुंतलागतमेव चिन्तयति ) ( नेपथ्ये ) आश्चर्यमाश्चर्यम् । राजाः -- ( आकर्ण्य ) किं नु खलु स्यात् । ( प्रविश्य ) पुरोहितः -- ( सविस्मयम् ) देव अद्भुतं खलु संवृत्तम् । राजाः -- किमिव । पुरोहितः -- देव परावृत्तेषु कण्वशिष्येषु - सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता । राजाः -- किं च । पुरोहितः -- स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम॥३०॥ ( सर्वे विस्मयं रूपयन्ति ) राजाः -- भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् । पुरोहित -- ( विलोक्य ) विजयस्व । ( इति निष्क्रान्तः ) राजाः -- वेत्रवति पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय । प्रतीहारी -- इत इतो देवः । ( इति प्रस्थिता ) राजाः -- कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् । बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम्॥३१॥ ( इति निष्क्रान्ताः सर्वे ) ( इति पञ्चमोऽङ्कः । ) षष्ठोऽङ्कः । ( ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय रक्षिणौ च ) रक्षिणौ -- ( पुरुषं ताडयित्वा ) अरे कुम्भीरक कथय कुत्र त्वयेतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् । पुरुषः -- ( भीतिनाटितकेन ) प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी । प्रथमः -- किं शोभनो ब्राह्मण इति कृत्वा ( कलयित्वा ) राज्ञा प्रतिग्रहो दत्तः । पुरुषः -- श‍ृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः । द्वितियः --पाटच्चर किमस्माभिर्जातिः पृष्टा । श्यालः -- सूचक कथयतु सर्वननुक्रमेण । मैनमन्तरा प्रतिबध्नीतम् । उभौ -- यदावुत्त आज्ञापयति । कथय । पुरुषः -- अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि । श्यालः -- ( विहस्य ) विशुद्ध इदानीमाजीवः । पुरुषः -- भर्तः मा एवं भण । सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् । पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः॥१॥ श्यालः -- ततस्ततः । पुरुषः -- एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः । यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् । पश्चादहमस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः । मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः । श्यालः -- जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः । रक्षिणौ -- तथा । गच्छ अरे ग्रन्थिभेदक । ( सर्वे परिक्रामन्ति ) श्यालः -- सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्ते निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि । उभौ -- प्रविशत्वावुत्तः स्वामिप्रसादाय । ( इति निष्क्रान्तः श्यालः ) प्रथमः -- जानुक चिरायते खल्वावुत्तः । द्वितीयः -- नन्ववसरोपसर्पणीया राजानः । प्रथमः -- जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम् । ( इति पुरुषं निर्दिशति ) पुरुषः -- नार्हति भावोऽकारणमारणो भवितुम् । द्वितीयः -- ( विलोक्य ) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतोमुखो दृश्यते । गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यासि । ( प्रविश्य ) श्यालः -- सूचक मुच्यतामेष जालोपजीवी । उपपन्नः खल्वस्याङ्गुलीयकस्यागमः । सूचकः -- यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः । ( इति पुरुषं परिमुक्तबन्धनं करोति ) पुरुषः -- ( श्यालं प्रणम्य ) भर्तः अथ कीदृशो म आजीवः । श्यालः -- एष भर्त्राङ्गुलीयकमूल्यसम्मितः प्रसादोऽपि दापितः । ( इति पुरुषाय स्वं प्रयच्छति ) पुरुषः -- ( सप्रणामं प्रतिगृह्य ) भर्तः अनुगृहीतोऽस्मि । सूचकः -- एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः । जानुक -- आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः सम्मतेन भवितव्यमिति । श्यालः -- न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्त्राऽभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन आसीत् । सूचकः -- सेवितं नामावुत्तेन । जानुकः -- ननु भण । अस्य कृते मात्स्यिकभर्तुरिति । ( इति पुरुषमसूयया पश्यति ) पुरुषः -- भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु । जानुकः -- एतावद्युज्यते । श्यालः -- धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तच्छौण्डिकापणमेव गच्छामः । (इति निष्क्रान्ताः सर्वे) प्रवेशकः । ( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः ) सानुमती -- निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्यभिषेककाल इति साम्प्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । मेनकासम्बन्धेन शरीरभूता मे शकुंतला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । ( समन्तादवलोक्य ) किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । ( इति नाट्येनावतीर्य स्थिता ) ( ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी । अपरा च पृष्ठतस्तस्याः ) प्रथमा -- आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य ( योः ) । दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि॥२॥ द्वितीया -- परभृतिके किमेकाकिनी मन्त्रयसे । प्रथमा -- मधुकरिके चूतकलिकां दृष्ट्त्वोन्मत्ता परभृतिका भवति । द्वितीया -- ( सहर्षं त्वरयोपगम्य ) कथमुपस्थितो मधुमासः । प्रथमा -- मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् । द्वितीया -- सखि अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि । प्रथमा -- यदि ममापि खल्वर्धमर्चनफलस्य । द्वितीया -- अकथितेऽप्येतत्सम्पद्यते यत एकमेव नौ जीवीतं द्विधास्थितं शरीरम् । ( सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति ) अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति । ( इति कपोतहस्तकं कृत्वा ) त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे । पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव॥३॥ ( इति चूताङ्कुरं क्षिपति ) ( प्रविश्यापटीक्षेपेण कुपितः ) । कञ्चुकी -- मा तावदनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमाम्रकलिकाभङ्गं किमारभसे । उभे -- ( भीते ) प्रसीदत्वार्यः । अगृहीतार्थे आवाम् । कञ्चुकी -- न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः सन्नद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया । कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम्॥४॥ सनुमती -- नास्ति संदेहः । महाप्रभावो राजर्षिः । प्रथमा -- आर्य कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः । अत्र च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः । कञ्चुकी -- भवतु । न पुनरेवं प्रवर्तितव्यम् । उभे -- आर्य कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयत्वार्यः किन्निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः । सानुमती -- उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् । कञ्चुकी -- बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्योः कर्णपथं नायातं शकुंतलाप्रत्यादेशकौलीनम् । उभे -- श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् । कञ्चुकी -- तेन ह्यल्पं कथयितव्यम् । यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुंतला मोहात्प्रत्यादिष्टेति तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा हि रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः । दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम्॥५॥ सानुमती -- प्रियं मे । कञ्चुकी -- अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः । उभे -- युज्यते । ( नेपथ्ये ) एतु एतु भवान् । कञ्चुकी -- ( कर्णं दत्त्वा ) अये । इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् । उभे -- तथा । (इति निष्क्रान्ते) ( ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च । ) कञ्चुकी -- ( राजानमवलोक्य ) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एवमुत्सुकोऽपि प्रियदर्शनो देवः । तथा हि प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः । चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते॥६॥ सानुमती -- ( राजानं दृष्ट्वा ) स्थाने खलु प्रत्यादेशविमानिताऽप्यस्य कृते शकुंतला क्लाम्यति । राजाः -- ( ध्यानमन्दं परिक्रम्य ) प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् । अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम्॥७॥ सानुमती -- नन्वीदृशानि तपस्विन्या भागधेयानि । विदूषकः -- ( अपवार्य ) लङ्घित एष भूयोऽपि शकुंतलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति । कञ्चुकी -- ( उपगम्य ) जयतु जयतु देवः । महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः यथाकाममध्यास्तां विनोदस्थानानि महाराजः । राजाः -- वेत्रवति मद्वचनादमात्यमार्यपिशुनं ब्रूहि । चिरप्रबोधान्न सम्भावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति । प्रतीहारी -- यद्देव आज्ञापयति । ( इति निष्क्रान्ता ) राजाः -- वातायन त्वमपि स्वं नियोगमशून्यं कुरु । कञ्चुकी -- यदाज्ञापयति देवः । ( इति निष्क्रान्तः ) विदूषकः -- कृतं भवता निर्मक्षिकम् । साम्प्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि । राजाः -- वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि वचः । कुतः मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः । मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः॥८॥ विदूषकः -- तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयिष्यामि । ( इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति ) राजाः -- ( सस्मितम् ) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि । विषूषक -- नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुंतलायाः प्रतिकृतिमानयेति । राजाः -- ईदृशं हृदयविनोदनस्थानम् । तत्तमेव मार्गमादेशय । विदूषकः -- इत इतो भवान् । ( उभौ परिक्रमतः । सानुमत्यनुगच्छति ) विदूषकः -- एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । ( उभौ प्रवेशं कृत्वोपविष्टौ ) सानुमती -- लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतम् । ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि । ( इति तथा कृत्वा स्थिता ) राजाः -- सखे सर्वमिदानीं स्मरामि शकुंतलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचित्संकीर्तितं तत्रभवत्या नाम । कच्चिदहमिव विस्मृतवानसि त्वम् । विदूषकः -- न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती । सानुमती -- एवं न्विदम् । राजाः -- ( ध्यात्वा ) सखे त्रायस्व माम् । विदूषकः -- भोः किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोकवास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः । राजाः -- वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम्॥९॥ सानुमती -- अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे । विदूषकः -- भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा नीतेति । राजाः -- कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत । मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते । सानुमती -- सम्मोहः खलु विस्मयनीयो न प्रतिबोधः । विदूषकः -- यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या । राजाः -- कथमिव । विदूषकः -- न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः । राजाः -- वयस्य । स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् । असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः॥१०॥ विदूषकः -- मैवम् । नन्वङ्गुलीयकमेव निदर्शनमवश्यं भाव्यचिन्तनीयः समागमो भवतीति । राजाः -- ( अङ्गुलीयकं विलोक्य ) अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् । तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन । अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु॥११॥ सानुमती -- यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् । विदूषकः -- भोः इयं नाममुद्रा केनोध्दातेन तत्रभवत्या हस्ताभ्यासं प्रापिता । सानुमती -- ममापि कौतूहलेनाकारित एषः । राजाः -- श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति । विदूषकः -- ततस्ततः । राजाः -- पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता । एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम् । तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति ॥१२॥ तच्च दारुणात्मना मया मोहान्नानुष्ठितम् । सानुमती -- रमणीयः खल्ववधिर्विधिना विसंवादितः । विदूषकः -- अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् । राजाः -- शचीतीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् । विदूषकः -- युज्यते । सानुमती -- अत एव तपस्विन्याः शकुंतलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आसीत् । अथ वेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् । राजाः -- उपालप्स्ये तावदिदमङ्गुलीयकम् । विदूषकः -- ( आत्मगतम् ) गृहीतोऽनेन पन्था उन्मत्तानाम् । राजाः -- कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि । अथवा । अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया॥१३॥ विदूषकः -- ( आत्मगतम् ) कथं बुभुक्षया खादितव्योऽस्मि । राजाः -- प्रिये अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनर्दर्शनेन । ( प्रविश्यापटीक्षेपेण चित्रफलकहस्ता ) चतुरिका -- इयं चित्रगता भट्टिनी । ( इति चित्रफलकं दर्शयति ) विदूषकः -- ( विलोक्य ) साधु वयस्य । मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु । सानुमती -- अहो एषा राजर्षेर्निपुणता । जाने सख्यग्रतो मे वर्तत इति । राजाः -- यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा । तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम्॥१४॥ सानुमती -- सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च । विदूषकः -- भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः । कतमाऽत्र तत्रभवती शकुंतला । सानुमती -- अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः । राजाः -- त्वं तावत्कतमां तर्कयसि । विदूषकः -- तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व इषत्परिश्रान्तेवालिखिता सा शकुंतला । इतरे सख्याविति । राजाः -- निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् । स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः । अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात्॥१५॥ चतुरिके अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय । चतुरिका -- आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि । राजाः -- अहमेवैतदवलम्बे । ( इति यथोक्तं करोति ) ( निष्क्रान्ता चेटि ) राजाः -- ( निःश्वस्य ) साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु मन्यमानः । स्त्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान्मृगतृष्णिकायाम्॥१६॥ विदूषकः -- ( आत्मगतम् ) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां सङ्क्रान्तः । ( प्रकाशम् ) भोः अपरं किमत्र लेखितव्यम् । सानुमति -- यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालेखितुकामो भवेत् । राजाः -- श्रूयताम् । कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः । शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः श‍ृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम्॥१७॥ विदूषकः -- ( आत्मगतम् ) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः । राजाः -- वयस्य अन्यश्च । शकुंतलायाः प्रसाधनमभिप्रेतमत्र विस्मृतमस्माभिः । विदूषकः -- किमिव । सानुमती -- वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं भविष्यति । राजाः -- कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् । न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचित स्तनान्तरे॥ १८॥ विदूषकः -- भोः किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाऽग्रहस्तेन मुखमावार्य चकितचकितेव स्थिता । ( सावधानं निरूप्य दृष्ट्वा ) आः एष दास्याःपुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनकमलमभिलङ्घते मधुकरः । राजाः -- ननु वार्यतामेष धृष्टः । विदूषकः -- भवानेवाविनीतानां शासिताऽस्य वारणे प्रभविष्यति । राजाः -- युज्यते । अयि भोः कुसुमलताप्रियातिथे किमत्र परिपतनखेदमनुभवसि । एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति॥१९॥ सानुमती -- अद्याभिजातं खल्वेष वारितः । विदूषकः -- प्रतिषिद्धापि वामैषा जातिः । राजाः -- एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि सम्प्रति । अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु । बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम्॥२०॥ विदूषकः -- एवं तीक्ष्णदण्डस्य किं न भेष्यति । ( प्रहस्य । आत्मगतम् ) एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । ( प्रकाशम् ) भोः चित्रं खल्वेतत् । राजाः -- कथं चित्रम् । सानुमती -- अहमपीदानीमवगतार्था । किं पुनर्यथालिखितानुभाव्येषः । राजाः -- वयस्य किमिदमनुष्ठितं पौरोभाग्यम् । दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन । स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता॥२१॥ ( इति बाष्पं विहरति ) सानुमती -- पूर्वापरविरोध्यपूर्व एष विरहमार्गः । राजाः -- वयस्य कथमेवमविश्रान्तदुःखमनुभवामि । प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः । बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि॥२२॥ सानुमती -- सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुंतलायाः । ( प्रविश्य ) चतुरिका -- जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि । राजाः -- किं च । चतुरिका -- स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः । विदूषकः -- दिष्ट्या त्वं मुक्ता । चतुरिका -- यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्मा । राजाः -- वयस्य उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु । विदूषकः -- आत्मानमिति भण । ( चित्रफलकमादायोत्थाय च ) यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दायय । ( इति द्रुतपदं निष्क्रान्तः ) सानुमती -- अन्यसंक्रान्तहृदयोऽपि प्रथमसम्भावनामपेक्षते । अतिशिथिलसौहार्द इदानीमेषः । ( प्रविश्य पत्रहस्ता ) प्रतीहारी -- जयतु जयतु देवः । राजाः -- वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी । प्रतीहारी -- अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । राजाः -- कार्यज्ञा कार्योपरोधं मे परिहरति । प्रतीहारी -- देव अमात्यो विज्ञापयति । अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति । राजाः -- इतः पत्रं दर्शय । ( प्रतिहार्युपनयति ) राजाः -- ( अनुवाच्य ) कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यश्च किल तपस्वी । राजगामी तस्यार्थसंचय इत्येतदमात्येन लिखितम् । कष्टं खल्वनपत्यता । वेत्रवति बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् । विचार्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् । प्रतीहारी -- देव इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते । राजाः -- ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ । एवममात्यं ब्रूहि । प्रतीहारी -- यद्देव आज्ञापयति । ( इति प्रस्थिता ) राजाः -- एहि तावत् । प्रतीहारी -- इयमस्मि । राजाः -- किमनेन संततिरस्ति नास्तीति । येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । स स पापादृते तासां दुष्यन्त इति घुष्यताम्॥२३॥ प्रतीहारी -- एवं नाम घोषयितव्यम् । ( निष्क्रम्य । पुनः प्रविष्य ) काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् । राजाः -- ( दीर्घमुष्णं च निःश्वस्य ) एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने सम्पदः परमुपतिष्ठन्ते । ममाप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः । प्रतीहारी -- प्रतिहतममङ्गलम् । राजाः -- धिङ्मामुपस्थितश्रेयोवमानिनम् । सानुमती -- असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा । राजाः -- संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा । कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा॥२४॥ सानुमती -- अपरिच्छिन्नेदानीं ते संततिर्भविष्यति । चतुरिका -- ( जनान्तिकम् ) अये अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं मेघप्रतिच्छन्दादार्यं माधव्यं गृहीत्वागच्छ । प्रतीहारी -- सुष्ठु भणसि । ( इति निष्क्रान्ता ) राजाः -- अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः । अस्मात्परं बत यथाश्रुति सम्भृतानि को नः कुले निवपनानि नियच्छतीति । नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति॥२५॥ ( इति मोहमुपगतः ) चतुरिका -- ( ससम्भ्रममवलोक्य ) समाश्वसितु समाश्वसितु भर्ता । सानुमती -- हा धिक् हा धिक् । सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अहमिदानीमेव निर्वृतं करोमि । अथ वा श्रुतं मया शकुंतलां समाश्वासयन्त्या महेन्द्रजनन्या मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । तद्युक्तमेतं कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि । ( इत्युद्भ्रान्तकेन निष्क्रान्ता ) ( नेपथ्ये ) अब्रह्मण्यम् । राजाः -- ( प्रत्यागतः । कर्णं दत्त्वा ) अये माधव्यस्येवार्तस्वरः । कः कोऽत्र भोः । ( प्रविश्य ) प्रतीहारी -- ( ससम्भ्रमम् ) परित्रायतां देवः संशयगतं वयस्यम् । राजाः -- केनात्तगन्धो माणवकः । प्रतीहारी -- अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः । राजाः -- ( उत्थाय ) मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथ वा । अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् । प्रजासु कः के पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः॥२६॥ ( नेपथ्ये ) भो वयस्य अविहा अविहा । राजाः -- ( गतिभेदेन परिक्रामन् ) सखे न भेतव्यम् । ( नेपथ्ये ) ( पुनस्तदेव पठित्वा ) कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति । राजाः -- ( सदृष्टिक्षेपम् ) धनुस्तावत् । ( प्रविश्य शार्ङ्गहस्ता ) यवनी -- भर्तः एतध्दस्तावापसहितं शरासनम् । ( राजा सशरं धनुरादत्ते ) ( नेपथ्ये ) एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् । आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं भवत्विदानीम्॥२७॥ राजाः -- ( सरोषम् ) कथं मामेवोद्दिशति । तिष्ठ कुणपाशन । त्वमिदानीं न भविष्यसि । ( शार्ङ्गमारोप्य ) वेत्रवति सोपानमार्गमादेशय । प्रतिहारी -- इत इतो देवः । ( सर्वे सत्वरमुपसर्पन्ति ) राजाः -- ( समन्ताद्विलोक्य ) शून्यं खल्विदम् । ( नेपथ्ये ) अविहा । अविहा । अहं अत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः । राजाः -- भोस्तिरस्करिणीगर्वित मदीयमस्त्रं त्वां द्रक्ष्यति । एष तमिषुं संदधे । यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः॥२८॥ ( इत्यस्त्रं संधत्ते ) ( ततः प्रविशति विदूषकमुत्सृज्य मातलिः ) मातलिः -- कृता शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् । प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥२९॥ राजाः -- ( ससम्भ्रममस्त्रमुपसंहरन् ) अये मातलिः । स्वागतं महेन्द्रसारथे । ( प्रविश्य ) विदूषकः -- अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनद्यते । मातलिः -- ( सस्मितम् ) आयुष्मन्श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः । राजाः -- अवहितोऽस्मि । मातलिः -- अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः । राजाः -- अस्ति । श्रुतपूर्वं मया नारदात् । मातलिः -- सख्युस्ते स किल शतक्रतोरजय्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता । उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥३०॥ स भवानात्तशस्त्र एव इदानीमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम् । राजाः -- अनुगृहीतोऽहमनया मघवतः सम्भावनया । अथ माधव्यं प्रति भवता किमेवं प्रयुक्तम् । मातलिः -- तदपि कथ्यते । किञ्चिन्निमित्तादपि मनःसंतापादायुष्मान्मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः । ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते । प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः॥३१॥ राजाः -- ( जनान्तिकम् ) वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि । त्वन्मतिः केवला तावत् परिपालयतु प्रजाः । अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः॥३२॥ इति । विदूषकः -- यद्भवानाज्ञापयति । ( इति निष्क्रान्तः ) मातलिः -- आयुष्मान्रथमारोहतु । ( राजा रथारोहणं नाट्यति ) ( निष्क्रान्ताः सर्वे ) ( इति षष्ठो अङ्कः । ) सप्तमोऽङ्कः । ( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च ) राजाः -- मातले अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये । मातलिः -- ( सस्मितम् ) आयुष्मन् उभयमप्यपरितोषं समर्थये । प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् । गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान्॥१॥ राजाः -- मातले मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य । अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन । आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा॥२॥ मातलिः -- किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य । सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् । तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः॥३॥ राजाः -- अत्र खलु शतक्रतोरेव महिमा स्तुत्यः । सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः । सम्भावनागुणमवेहि तमीश्वराणाम् । किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्॥४॥ मातलिः -- सदृशं तवैतत् । ( स्तोकमन्तरमतीत्य ) आयुष्मन् इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः । विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु । विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति॥५॥ राजाः -- मातले असुरसम्प्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः । कतमस्मिन्मरुतां पथि वर्तामहे । मातलिः -- त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च प्रविभक्तरश्मिः । तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् ॥६॥ राजाः -- मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । ( रथाङ्गमवलोक्य ) मेघपदवीमवतीर्णौ स्वः । मातलिः -- कथमवगम्यते । राजाः -- अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा चानुलिप्तैः । गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्ते शीकरक्लिन्ननेमिः॥७॥ मातलिः -- क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते । राजाः -- ( अधोऽवलोक्य ) मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि । शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी । पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः । संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः । केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते॥८॥ मातलिः -- साधु दृष्टम् । ( सबहुमानमवलोक्य ) अहो उदाररमणीया पृथिवी । राजाः -- मातले कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सांध्य इव मेघपरिघः सानुमानालोक्यते । मातलि -- आयुष्मन् एष खलु हेमकूटो नाम किम्पुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य । स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः । सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति॥९॥ राजाः -- तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि । मातलिः -- प्रथमः कल्पः । ( नाट्येनावतीर्णौ ) राजाः -- ( सविस्मयम् ) उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः । अभूतलस्पर्शनतयाऽनिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते॥१०॥ मातलिः -- एतावानेव शतक्रतोरायुष्मतश्च विशेषः । राजाः -- मातले कतमस्मिन्प्रदेशे मारीचाश्रमः । मातलिः -- ( हस्तेन दर्शयन् ) वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः । अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः॥११॥ राजाः -- नमस्ते कष्टतपसे । मातलिः -- ( संयतप्रग्रहं रथं कृत्वा ) एतौ अदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः । राजाः -- स्वर्गादधिकतरं निर्वृतिस्थानम् अमृतहृदमिवावगाढोऽस्मि । मातलिः -- ( रथं स्थापयित्वा ) अवतरत्वायुष्मान् । राजाः -- ( अवतीर्य ) मातले भवान्कथमिदानीम् । मातलिः -- संयन्त्रितो मया रथः । वयमप्यवतरामः । ( तथा कृत्वा ) इत आयुष्मन् । ( परिक्रम्य ) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः । राजाः -- ननु विस्मयादवलोकयामि । प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी॥१२॥ मातलिः -- उत्सर्पिणी खलु महतां प्रार्थना । ( परिक्रम्य । आकाशे ) अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति । राजाः -- ( कर्णं दत्त्वा ) अये प्रतिपाल्यावसरः खलु प्रस्तावः । मातलिः -- ( राजानमवलोक्य ) अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि । राजाः -- यथा भवान्मन्यते । ( इति स्थितः ) मातलिः -- आयुष्मन् साधयाम्यहम् । ( इति निष्क्रान्तः ) राजाः -- ( निमित्तं सूचयित्वा ) मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा । पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते॥१३॥ ( नेपथ्ये ) मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् । राजाः -- ( कर्णं दत्त्वा ) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते । ( शब्दानुसारेणावलोक्य । सविस्मयम् ) अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः । अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् । प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति॥१४॥ ( ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः ) बालः -- जृम्भस्व सिंह दन्तांस्ते गणयिष्ये । प्रथमा -- अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । राजाः -- किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति । द्वितीया -- एषा खलु केसरिणी त्वां लङ्घयति यद्यस्याः पुत्रकं न मुञ्चसि । बालः -- ( सस्मितम् ) अहो बलीयः खलु भीतोऽस्मि । ( इत्यधरं दर्शयति ) राजाः -- महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे । स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः॥१५॥ प्रथमा -- वत्स एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि । बालः -- कुत्र । देह्येतत् । ( इति हस्तं प्रसारयति ) राजाः -- कथं चक्रवर्तिलक्षणमप्यनेन धार्यते । तथा ह्यस्य । प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः । अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम्॥१६॥ द्वितीया -- सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर । प्रथमा -- तथा । ( इति निष्क्रान्ता ) बालः -- अनेनैव तावत्क्रीडिष्यामि । ( इति तापसीं विलोक्य हसति ) राजाः -- स्पृहयामि खलु दुर्ललितायस्मै । आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति॥ १७॥ तापसी -- भवतु । न मामयं गणयति । ( पार्श्वमवलोक्य ) कोऽत्र ऋषिकुमाराणाम् । ( राजानमवलोक्य ) भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् । ( -दुर्मोक- ) राजाः -- ( उपगम्य । सस्मितम् ) अयि भो महर्षिपुत्र । एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया । सत्त्वसंश्रय सुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः॥१८ ॥ तापसी -- भद्रमुख न खल्वयमृषिकुमारः । राजाः -- आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवन्तर्किणः । ( यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य । आत्मगतम् ) अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः॥१९ ॥ तापसी -- ( उभौ निर्वर्ण्य ) आश्चर्यमाश्चर्यम् । राजाः -- आर्ये किमिव । तापसी -- अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिताऽस्मि । अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति । राजाः -- ( बालकमुपलालयन् ) न चेन्मुनिकुमारोऽयमथ को स्य व्यपदेशः । तापसी -- पुरुवंशः । राजाः -- ( आत्मगतम् ) कथमेकान्वयो मम । अतः खलु मदनुकारिणमेनमत्रभवती मन्यते । अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् । भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् । नियतैकव्रतियतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम्॥२०॥ ( प्रकाशम् ) न पुनरात्मगत्या मानुषाणामेष विषयः । तापसी -- यथा भद्रमुखो भणति । अप्सरःसम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता । राजाः -- ( अपवार्य ) हन्त द्वितीयमिदमाशाजननम् । ( प्रकाशम् ) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी । तापसी -- कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति । राजाः -- ( स्वगतम् ) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथ वाऽनार्यः परदारव्यवहारः । ( प्रविष्य मृन्मयूरहस्ता ) तापसी -- सर्वदमन शकुंतलावण्यं प्रेक्षस्व । बालः -- ( सदृष्टिक्षेपम् ) कुत्र वा मम माता । उभे -- नामसादृश्येन वञ्चितो मातृवत्सलः । द्वितीया -- वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि । राजाः -- ( आत्मगतम् ) किं वा शकुन्तलेत्यस्या मातुराख्या । सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते । बालः -- मातः रोचते म एष भद्रमयूरः । ( इति क्रीडनकमादत्ते ) प्रथमा -- ( विलोक्य । सोद्वेगम् ) अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । राजाः -- अलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् । ( इत्यादातुमिच्छति ) उभे -- मा खल्वेतदवलम्ब्य कथम् । गृहीतमनेन । ( इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः ) राजाः -- किमर्थं प्रतिषिद्धाः स्मः । प्रथमा -- श‍ृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति । राजाः -- अथ गृह्णाति । प्रथमा -- ततस्तं सर्पो भूत्वा दशति । राजाः -- भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया । उभे -- अनेकशः । राजाः -- ( सहर्षम् । आत्मगतम् ) कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि । ( इति बालं परिष्वजते ) द्वितीया -- सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुंतलायै निवेदयावः । ( इति निष्क्रान्ते ) बालः -- मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि । राजाः -- पुत्रक मया सहैव मातरमभिनन्दिष्यसि । बालः -- मम खलु तातो दुष्यन्तः । न त्वम् । राजाः -- ( सस्मितम् ) एष विवाद एव प्रत्याययति । ( ततः प्रविशत्येकवेणीधरा शकुंतला ) शकुंतला -- विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशाऽऽसीदात्मनो भागधेयेषु । अथ वा यथा सानुमत्याऽऽख्यातं तथा सम्भाव्यत एतत् । राजाः -- ( शकुंतलां विलोक्य ) अये सेयमत्रभवती शकुंतला यैषा वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति॥२१॥ शकुंतला -- ( पश्चात्तापविवर्णं राजानं दृष्ट्वा ) न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति । बालः -- ( मातरमुपेत्य ) मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति । राजाः -- प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि । शकुंतला -- ( आत्मगतम् ) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः । राजाः -- प्रिये । स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि । उपरागान्ते शशिनः समुपगता रोहिणी योगम्॥२२॥ शकुंतला -- जयतु जयत्वार्यपुत्रः । (इत्यर्धोक्ते बाष्पकण्ठी विरमति) राजाः -- सुन्दरि । बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया । यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम्॥२३॥ बालः -- मातः क एषः । शकुंतला -- वत्स ते भागधेयानि पृच्छ । राजाः -- ( शकुंतलायाः पादयोः प्रणिपत्य ) सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः सम्मोहो मे तदा बलवानभूत् । प्रबलतमसामेवम्प्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया॥२४॥ शकुंतला -- उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामाभिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः । ( राजोत्तिष्ठति ) शकुंतला -- अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः । राजाः -- उद्धृतविषादशल्यः कथयिष्यामि । मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बद्धबिन्दुरधरं परिबाधमानः । तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य विगतानुशयो भवेयम्॥२५॥ ( इति यथोक्तमनुतिष्ठति ) शकुंतला -- ( नाममुद्रां दृष्ट्वा ) आर्यपुत्र इदं तदङ्गुलीयकम् । राजाः -- अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा । शकुंतला -- विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । राजाः -- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् । शकुंतला -- नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु । ( ततः प्रविशति मातलिः ) मातलिः -- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान्वर्धते । राजाः -- अभूत्सम्पादितस्वादुफलो मे मनोरथः । मातले न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् । मातलिः -- ( सस्मितम् ) किमीश्वराणां परोक्षम् । एत्वायुष्मान् । भगवान्मारीचस्ते दर्शनं वितरति । राजाः -- शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि । शकुंतला -- जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् । राजाः -- अप्याचरितव्यमभ्युदयकालेषु । एह्येहि । ( सर्वे परिक्रामन्ति ) ( ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः ) मारीचः -- ( राजानमवलोक्य ) दाक्षायणि । पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्त इत्यभिहितो भुवनस्य भर्ता । चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः॥२६॥ अदितिः -- सम्भावनीयानुभावाऽस्याकृतिः । मातलिः -- आयुष्मन् एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प । राजाः -- मातले । प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् । यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं द्वन्द्वं दक्षमरीचिसम्भवमिदं तत्स्रष्टुरेकान्तरम्॥२७॥ मातलिः -- अथ किम् । राजाः -- ( उपगम्य ) उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति । मारीच -- वत्स चिरं जीव । पृथिवीं पालय । अदितिः -- वत्स अप्रतिरथो भव । शकुंतला -- दारकसहिता वां पादवदनं करोमि । मारीचः -- वत्से । आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः । आशीरन्या न ते योग्या पौलोमीसदृशी भव॥२८॥ अदितिः -- जाते भर्तुर्बहुमता भव । अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु । उपविशत । ( सर्वे प्रजापतिमभित उपविशन्ति ) मारीचः -- ( एकैकं निर्दिंशन् ) दिष्ट्या शकुंतला साध्वी सदपत्यमिदं भवान् । श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम्॥२९॥ राजाः -- भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः । उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः॥३०॥ मातलिः -- एवं विधातारः प्रसीदन्ति । राजाः -- भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वां तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति । यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् । पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः॥३१॥ मारीचः -- वत्स अलमात्मापराधशङ्कया । सम्मोहोऽपि त्वय्यनुपपन्नः । श्रूयताम् । राजाः -- अवहितोऽस्मि । मारीचः -- यदैवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां शकुंतलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः । राजाः -- ( सोच्छ्वासम् ) एष वचनीयान्मुक्तोऽस्मि । शकुंतला -- ( स्वगतम् ) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तमात्मानं स्मरामि । अथ वा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः । अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति । मारीचः -- वत्से चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य । शापादसि प्रतिहता स्मृतिरोधरूक्षे भर्तर्यपेततमसि प्रभुता तवैव । छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा॥३२॥ राजाः -- यथाह भगवान् । मारीचः -- वत्स कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः । राजाः -- भगवन् अत्र खलु मे वंशप्रतिष्ठा । ( इति बालं हस्तेन गृह्णाति ) मारीचः -- तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य । रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः । इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात्॥३३॥ राजाः -- भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे । अदितिः -- भगवन् अस्या दुहितृमनोरथसम्पत्तेः कण्वोऽपि तावत्च्छ्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति । शकुंतला -- ( आत्मगतम् ) मनोरथः खलु मे भणितो भगवत्या । मारीचः -- तपःप्रभवात्प्रत्यक्षं सर्वमेव तत्रभवतः । राजाः -- अतः खलु मम नातिक्रुद्धो मुनिः । मारीचः -- तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः । कः कोऽत्र भोः । ( प्रविश्य ) शिष्यः -- भगवन् अयमस्मि । मारीचः -- गालव इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुंतला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति । शिष्यः -- यदाज्ञापयति भगवान् । ( इति निष्क्रान्तः ) मारीचः -- वत्स त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व । राजाः -- यदाज्ञापयति भगवान् । मारीचः -- अपि च । तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व । युगशतपरिवर्तानेवमन्योन्यकृत्यैर्नयतमु- भयलोकानुग्रहश्लाघनीयैः॥३४॥ राजाः -- भगवन् यथाशक्ति श्रेयसे यतिष्ये । मारीचः -- वत्स किं ते भूयः प्रियमुपकरोमि । राजाः -- अतः परमपि प्रियमस्ति । यदीह भगवान्प्रियं कर्तुमिच्छति तर्हीदमस्तु । ( भरतवाक्यम् ) प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम् । ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः॥३५॥ ( निष्क्रान्ताः सर्वे ) ( इति सप्तमोऽङ्कः । ) समाप्तमिदमभिज्ञानशकुंतलं नाम नाटकम् ।

No comments:

Post a Comment

मृत्युचिन्तन - कलाकार स्व. गणेश रसिकको सम्झनामा

आज कान्तिपुर दैनिकमा लोक संस्कृति र संगित क्षेत्रका मुर्धन्य कलाकार गणेश रसिकले इहलोक परित्याग गरेको समाचार र त्यसमा व्यक्त भावुक भनाइहरुले ...