Wednesday, May 5, 2021

गुरुवष्टकम शंकराचार्यकृत (Shankaracharya Krta Guru Ashtakam)

 

गुर्वष्टकं

जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो भक्तैर्वैदिकलक्षणेन विधिना सन्तुष्ट ईशः स्वयम् । साक्षात् श्रीगुरुरूपमेत्य कृपया दृग्गोचरः सन् प्रभुः तत्त्वं साधु विबोध्य तारयति तान् संसारदुःखार्णवात् ॥ =============================================
     शरीरं सुरूपं तथा वा कलत्रं
            यशश्चारु चित्रं धनं मेरुतुल्यम् ।
     मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
            ततः किं ततः किं ततः किं ततः किम् ॥ १॥ 

     कलत्रं धनं पुत्रपौत्रादि सर्वं
            गृहं बान्धवाः सर्वमेतद्धि जातम् ।
     मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
            ततः किं ततः किं ततः किं ततः किम् ॥ २॥ 

     षडङ्गादिवेदो मुखे शास्त्रविद्या
            कवित्वादि गद्यं सुपद्यं करोति ।
     मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
            ततः किं ततः किं ततः किं ततः किम् ॥ ३॥ 

     विदेशेषु मान्यः स्वदेशेषु धन्यः
            सदाचारवृत्तेषु मत्तो न चान्यः ।
     मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
            ततः किं ततः किं ततः किं ततः किम् ॥ ४॥ 

     क्षमामण्डले भूपभूपालबृन्दैः
            सदा सेवितं यस्य पादारविन्दम् ।
     मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
            ततः किं ततः किं ततः किं ततः किम् ॥ ५॥ 

यशो मे गतं दिक्षु दानप्रतापा-
            ज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।
     मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
            ततः किं ततः किं ततः किं ततः किम् ॥ ६॥ 

     न भोगे न योगे न वा वाजिराजौ
            न कान्तामुखे नैव वित्तेषु चित्तम् ।
     मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
            ततः किं ततः किं ततः किं ततः किम् ॥ ७॥ 

     अरण्ये न वा स्वस्य गेहे न कार्ये
            न देहे मनो वर्तते मे त्वनर्घ्ये ।
     मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
            ततः किं ततः किं ततः किं ततः किम् ॥ ८॥ 

     गुरोरष्टकं यः पठेत्पुण्यदेही
            यतिर्भूपतिर्ब्रह्मचारी च गेही ।
     लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं
            गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ 

No comments:

Post a Comment

मृत्युचिन्तन - कलाकार स्व. गणेश रसिकको सम्झनामा

आज कान्तिपुर दैनिकमा लोक संस्कृति र संगित क्षेत्रका मुर्धन्य कलाकार गणेश रसिकले इहलोक परित्याग गरेको समाचार र त्यसमा व्यक्त भावुक भनाइहरुले ...